अच्युताष्टकम् (Achyutashtakam)
अच्युताष्टकम् जय श्री कृष्ण आच्युताष्टक आदी शंकराचार्यद्बारा स्तवीत श्रीकृष्णचन्द्र प्रभु का स्तवन है । अच्युत का अर्थ कभी भी क्षीण न होनेवाला अर्थ होता है । सरस स्तवन का अानन्द लिजीए। अच्युतं केशवं रामनारायणं कृष्णदामोदरं वासुदेवं हरिम् । श्रीधरं माधवं गोपिकावल्लभं जानकीनायकं रामचन्द्रं भजे ॥ अच्युतं केशवं सत्यभामाधवं माधवं श्रीधरं राधिकाराधितम् । इन्दिरामन्दिरं चेतसा सुन्दरं देवकी नन्दनं नन्दजं सन्दधे ॥ विष्णवे जिष्णवे शङ्खिने चक्रिणे रुक्मणीरागिणे जानकी जानये । वल्लवीवल्वभायार्चितायात्मने कंशविध्वंसिने वंशिने ते नमः ॥ कृष्ण गोविन्द हे राम नारायण श्रीपते वासुदेवाजित श्रीनिधे । अच्युतानन्त हे माधवाधोक्षज द्वारकानायक द्रौपदीरक्षक ॥ राक्षसक्षोभितः सीतया शोभितो दण्डकरण्यभूपुण्यताकारणः । लक्ष्मणेनान्वितो वानरैः सेवितो ऽगस्त्यसम्पूजि...