वेदान्तसारः
वेदान्तसारः मङ्गलाचरणम्। अखन्डं सच्चिदानन्दमवाङ्मनसगोचरम्। आत्मानामखिलाधारमाश्रयेऽभीष्टसिद्धये॥१॥ गुरुवन्दनम्। अर्थतोऽप्यद्वयानन्दानतीतद्वैतभनतः। गुरुनाराध्य वेदान्तसारं वक्ष्येयथामति॥२॥ उपनिषदामेव वेदान्तसंज्ञा। वेदान्तो नामोपनिषत्प्रमाणं तदुपकारीणि शारीरकसूत्रादीनि च। अस्य वेदान्त प्रकरणत्वात्तदीयैरेवानुबन्धैस्तद्वत्तासिद्धेर्न ते पृथगालोचनीयाः। अनुबन्ध चतुष्टयम्। तत्रानुबन्धो नामाधिकारिविषयसम्बन्धप्रयोजनानि॥३॥ अधिकारिवर्णनम्। अधिकारी तु विधिवदधीतवेदवेदाङ्गत्वेनापाततोऽधिगताखिलवेदार्थोऽस्मिन् जन्मनिजन्मातरे वा काम्यनिसिद्धवर्जनपुरःसरं नित्यनैमित्तिकप्रायश्चित्तोपासनासाधनानुष्ठानेन निर्गतनिखिलकल्मषतया नितान्तनिर्मलस्वान्तः साधनाचतुष्टयसम्पन्नः प्रमाता॥४॥ काम्यादिकर्मस्वरूपाणि। काम्यानि स्वर्गादिष्टसाधनानि ज्योतिष्टोमादीनि। निसिद्धानिनरकाद्यनिष्टसाधनानिब्राह्मणहननादीनि। नित्यान्यायकरणे प्रत्यवायसाधनानि सन्ध्यावन्दनादीनि। नैमित्तिकानि पुत्रजन्माद्यानुबन्धीनि जातेष्ट्यादीनि। प्रायश्चित्तानि पापक्षसाधनानि चान्द्रायणादीनि। उपासनानि सगुणब्रह्मविषयमानसव्यापाररूपाणि शाण्डि...