वेदान्तसारः

वेदान्तसारः

मङ्गलाचरणम्।
अखन्डं सच्चिदानन्दमवाङ्मनसगोचरम्।
आत्मानामखिलाधारमाश्रयेऽभीष्टसिद्धये॥१॥

गुरुवन्दनम्।
अर्थतोऽप्यद्वयानन्दानतीतद्वैतभनतः।
गुरुनाराध्य वेदान्तसारं वक्ष्येयथामति॥२॥

उपनिषदामेव वेदान्तसंज्ञा।
वेदान्तो नामोपनिषत्प्रमाणं तदुपकारीणि शारीरकसूत्रादीनि च। अस्य वेदान्त प्रकरणत्वात्तदीयैरेवानुबन्धैस्तद्वत्तासिद्धेर्न ते पृथगालोचनीयाः।

अनुबन्ध चतुष्टयम्।
तत्रानुबन्धो नामाधिकारिविषयसम्बन्धप्रयोजनानि॥३॥

अधिकारिवर्णनम्।
अधिकारी तु विधिवदधीतवेदवेदाङ्गत्वेनापाततोऽधिगताखिलवेदार्थोऽस्मिन् जन्मनिजन्मातरे वा काम्यनिसिद्धवर्जनपुरःसरं नित्यनैमित्तिकप्रायश्चित्तोपासनासाधनानुष्ठानेन निर्गतनिखिलकल्मषतया नितान्तनिर्मलस्वान्तः साधनाचतुष्टयसम्पन्नः प्रमाता॥४॥

काम्यादिकर्मस्वरूपाणि।
काम्यानि स्वर्गादिष्टसाधनानि ज्योतिष्टोमादीनि। निसिद्धानिनरकाद्यनिष्टसाधनानिब्राह्मणहननादीनि। नित्यान्यायकरणे प्रत्यवायसाधनानि सन्ध्यावन्दनादीनि। नैमित्तिकानि पुत्रजन्माद्यानुबन्धीनि जातेष्ट्यादीनि। प्रायश्चित्तानि पापक्षसाधनानि चान्द्रायणादीनि। उपासनानि सगुणब्रह्मविषयमानसव्यापाररूपाणि शाण्डिल्यविद्यादीनि॥५॥

कर्मफलानि।
एतेषां नित्यादीनां बुद्धिशुद्धिः परं प्रयोजनमुपासनानां तु चित्तैकाग्र्यं "तमेतमात्मानं वेदानुवचनेन ब्रह्मणा विविदिषन्ति यज्ञेन" इत्यादिश्रुतेः "तपसा कल्मषं हन्ति" इत्यादिस्मृतेश्च। नित्यनैमित्तिकप्रायश्चित्तोपासनानां त्ववान्तरफलं पितृलोकसत्यलोकप्रप्तिः "कर्मणा पितृलोको विद्यया देवलोक" इत्यादिश्रुतेः॥६॥

साधनाचतुष्टयम्।
साधनानि नित्यानित्यवस्तुविवेकेहामुत्रार्थफलभोगविरागशमादिषट्कसम्पत्तिमुमुक्षुत्वानि। नित्यानित्यवस्तुविवेकस्तावद्ब्रह्मैव नित्यं वस्तु ततोऽन्यदखिलमनित्यमिति विवेचनम्। ऐहिकानां स्रक्चन्दनवनितादिनिविषयभोगानां कर्मजन्यतयाऽनित्यत्ववदामुष्मिकाणामप्यमृतादिनविषयभोगानामनित्यतया तेभ्यो नितरां विरतिरिहामुत्रर्थफलभोहविरागः। शमादयस्तु शमदमोपरतितितिक्षासमाधानश्रद्धाख्याः। शमस्तावच्छ्रवणेन्द्रियाणां तद्व्यतिक्तविषयेभ्यो मनसो निग्रहः। दमोबाह्येन्द्रियाणां तद्व्यतिरिक्तविषयेभ्यो निवर्तनम्। निवर्तितानामेतेषां तद्व्यतिरिक्तविषयेभ्य उपरमणमुपरतिरथवा विहितानां कर्मणां विधिना परित्यागः। तितिक्षा शीतोष्णादिद्वन्द्वसहिष्णुता। निगृहीतस्य मनसः श्रवणादौ तदनुगुणविषये च समाधिः समाधानम्। गुरूपदिष्टवेदान्तवाक्येषु विश्वासः श्रद्धा । मुमुक्षुत्वं मोक्षेच्छा । एवभूता प्रमाताधिकारी  "शान्तो दान्त" इत्यादिश्रुतेः। उक्तं च "प्रशान्त  चित्ताय जितेन्द्रियाय च ग्रहणदोषाय यथोक्तकारिणे। गुणन्वितायानुगताय सर्वदा प्रदेयमेतत्सततं मुमुक्षव" इति॥७॥

विषयानुबन्धं निरुपरणम्॥
विषयो जीवब्रह्मैक्यं शुद्धचैतन्यं प्रमेयं तत्रैव वेदान्तानां तात्पर्यत्। सम्बन्धस्तु तदैक्यप्रमेयस्य तत्प्रतिपपादकोपनिषत्प्रमाणस्य च बोध्यबोधकभावः। प्रयोजनं तु तदैक्यप्रमेयगताज्ञाननिवृत्तिः स्वस्वरूपानन्दावाप्तिश्च "तरति शोकमात्मवित्" इत्यादिश्रुतेः ''ब्रह्मविद्ब्रह्मैव भवति'' इत्यादिश्रुतेश्च॥८॥

शिष्यस्य गुरोश्च कर्तव्य प्रदर्शनम्।
अयमधिकारी जननमरणादिसंसारानलसन्तप्तो प्रदीप्तशिरा जलराशिमिवोपहारपाणिः श्रोत्रियं ब्रह्मनिष्ठं गुरुमुपसृत्य तमनुसरति "समित्पाणिः श्रोत्रियं ब्रह्मनिष्ठम्" इत्यादिश्रुतेः। स परमकृपयाध्यारोपापवादन्यायैनमुपपदिशति "तस्मै स विद्वानुपसन्नाय प्राह" इत्यादिश्रुतेः॥९॥

असर्पभूतायां रज्जौ सर्पारोपवद्वस्तुन्यवस्त्वारोपोऽध्यारोपः। वस्तु सच्चिदानन्दानन्ताद्वयं ब्रह्म। अज्ञानादिसकलजडसमूहोऽवस्तु। अज्ञानं तु सदसद्भ्यामनिर्वचनीयं त्रिगुणात्मकं ज्ञानविरोधि भावरूपं यत्किञ्चिदिति वदन्त्यहमज्ञ इत्याद्यनुभवात् "देवात्मशक्तिं स्वगुणैर्निगूढान्" इत्यादिश्रुतीश्च॥१०॥

समष्टि व्यष्टिरुपेण अज्ञानस्य भेदद्वयम्।
इदमज्ञानं समष्टिव्यष्ट्यभिप्रायेणैकमनेकमिति च व्यवह्रियते।तथहि। यथा वृक्षाणां समष्ट्यभिप्रायेण वनमित्येकत्वव्यपदेशो यथा वा जलानां समष्ट्यभिप्रायेण जलाशय इति तथा नानत्वेन प्रतिभासमानानां जीवगताज्ञानानां समष्ट्यभिप्रायेण तदेकत्वव्यपदेशो"ऽजामेकाम्"इत्यादिश्रुतेः। इयं समष्टिरुत्कृष्टोपाधितया विशुद्धसत्त्वप्रधाना। एतदुपहितं चैतन्यं सर्वज्ञत्वसर्वेश्वरत्वसर्वनियन्तृत्वादिगुणकमव्यक्तमन्तर्यामी जगत्कारणमीश्वर इति च व्यपदिश्यते सकलाज्ञानाभसकत्वात्। "यः सर्वज्ञः सर्ववित्" इतिश्रुतेः। ईश्वरस्येयं समष्टिरखिलकारणत्वाकारणशरीरमानन्दप्रचुरत्वात्कोशोवदाच्छादकत्वाच्चान्दमयकोशः सर्वोपरमत्वात्सुषुप्तिरत एव स्थूलसूक्ष्मप्रपञ्चलयस्थानमिति चोच्यते । यथा वनस्यव्यष्ट्यभिप्रायेण वृक्षा इत्यनेकत्वव्यपदेश "इन्द्रो मायाभिः पुरुरूप ईयते" इत्यादिश्रुतेः। अत्र व्यस्तसमस्तव्यापपित्वेन व्यष्टिसमष्टिताव्यपदेशः। एतदुपहितं चैतन्यमल्पज्ञानित्वानीश्वरत्वादिगुणकं प्राज्ञ इत्युच्यते एकाज्ञानावभषकत्वात्। अस्य प्राज्ञत्वामस्पष्टोपाधितयानतिप्रकाशकत्वात्। अस्य प्राज्ञत्वमस्पष्टोपाधितयानतिप्रकाशकत्वात् अस्यापीयमहंकारादिकारणत्वात्कारणशरीरमानन्दप्रचुरत्वात्कोशच्छादकत्वाच्चाननंदमायकोशः सर्वोपरमत्वात्सुषुप्तिरत एव स्थूलसूक्ष्मशरीरप्रपञ्चलयस्थानमिति चोच्यते ॥११॥

ईश्वर प्राज्ञयोःस्वात्मानन्दानुभवः।
तदानीमेतावीश्वरप्राज्ञौ चैतन्यप्रदीप्ताभिरतिसूक्ष्माभिरज्ञानवृत्तिभिरानन्दमनुभवत "आनन्दभुक् चेतोमुखः प्राज्ञ" इति श्रुतेः सुखमहमस्वाप्सं न किञ्चिदवेदिषमित्युत्थितस्य परामर्शोपपत्तेश्च। अनयोः समष्टिव्यष्ट्योर्वनवृक्षयोरिव जलाशयोरिव वाभेदः। एतदुपहितयोरीश्वरप्राज्ञयोरपि वनवृक्षावच्छिन्नाकाशयोरिव जलाशयजलगतप्रतिबिम्बाकाशयोरिव वाभेदः "एष सर्वेश्वर" इत्यादिश्रुतेः॥१२॥

अनुपहितं तुरीयं चैतन्यम्।
वनवृक्षतदवच्छिन्नाकाशयोर्जलाशयतद्गतप्रतिबिम्बम्बाकाशयोर्वाधारभूतानुपहिताकाशवदनयोरज्ञनतदुपहितचैतन्ययोराधारभूतं यदनुपहितं चैतन्यं तत्तुरीयमित्युच्यते "शिवमद्वैतं चतुर्थं मन्यत" इत्यादिश्रुतेः। इदमेव तुरीयं शुद्धचैतन्यमज्ञानादितदुपहितचैतन्याभ्यां तप्तायः पिण्डवदविविक्तं सन्महावाक्यस्य दाच्यं विविक्त्ं सल्लक्ष्यमितिचोच्यते॥१३॥

अज्ञानस्य आवरण विक्षेपशक्तिर्द्वयी।
अस्याज्ञानस्यावरणविक्षेपनामकमस्ति शक्तिद्वयम्। आवरणशक्तिस्तावद्पोऽपि मेघोऽनेकतयोजनायतमादित्यमण्डलमवलोक्यतृनयनपथपिधायकतया यथाच्छादयतीवतथाज्ञानं परिच्छिन्नमप्यात्मानमरिच्छिन्नसंसारिणमिवलोकयितृबुद्धिपिधायकतयाच्छादयतीव तादृशं सामर्थ्यं।
तदुक्तम्:-
"घनच्छान्नदृष्टिर्घनच्छन्नमर्कं
           यथा मन्यते नोष्प्रभ चातिमूढः।
तथा बद्धवद्भाति यो मूढदृष्टेः
            स नित्योपलब्धिस्वरूपोऽहमात्मा॥" इति
अनयैवावरणशक्त्यावच्छिन्नस्यात्मनः कर्तृत्वसुखदुःखमोहत्मकतुच्छसंसारभवनापि सम्भाव्यते यथा स्वज्ञानेननावृतायां रज्ज्वां सर्पत्वसम्भवना। विक्षेपशक्तिस्तु यथा रज्ज्व ज्ञानं स्वावृतरज्जौ स्वशक्त्या सर्पादिकममुद्भावयत्येवमज्ञानमपमि स्वावृतात्मनि विक्षेपशक्त्या सर्पादिकमुद्भावयत्येवमज्ञानमपि स्वावृतात्मनि विक्षेपशक्त्याकाशादिप्रपञ्चमुद्भावयति तादृशं सामर्थ्यम्। तदुक्तम्-
                            "विक्षेपशक्तिर्लिङ्गादि
                              ब्रह्माण्डान्तं जगत्सृजेदि"ति॥१४॥
"(घनच्छन्नदृष्टिर्घनच्छन्नमर्कं
       यथा मन्यते निष्प्रभं चातिमूतढः
तथा बद्धवद्भाति यो मूढदृष्टेः
       स नित्योपलब्धिस्वरूपोऽहमात्मा इति)" हस्तामलकम् १०

प्रपञ्चस्य निमित्तकारणमुपादानकारणञ्चात्मैव।
शक्तिद्वयवदज्ञानोपहितं चैतन्यं स्वप्रधानतया निमित्तं स्वप्रपाधिप्रधनतयोपादान च भवति। यथा लूता तन्तुकार्यं प्रति स्वप्रधानतया निमित्तं स्वशरीरप्रधानतयोपादानं च भवति॥१५॥

सृष्टक्रम।
तमः प्रधानविक्षेपशक्तिमदज्ञानोपहितचैतन्यादाकाश आकाशद्वायुर्वायोरग्निरग्नेरापोऽद्भ्यः पृथिवी चोत्पद्यते "तस्माद्वा एतास्मादात्मन आकाशः सम्भूत" इत्यादिश्रुतेः तेषुजाड्याधिक्यदर्शननात्तमः प्राधान्यः तत्कारणस्य। तदानीं सत्वरजस्तमांसि कारणगुणप्रक्रमेण तेष्वाकाशादिषूत्पद्यन्ते। एतान्येव सूक्ष्मशरीराणि स्थूलभूतानि चोत्पद्यन्ते॥१६॥

सप्तदशावयवात्मकं लिङ्गमशरीरम्।
सूक्ष्मशरीराणि सप्तदशावयवानि लिङ्गशरीरणि। अवयवास्तु ज्ञानेन्द्रियपञ्चकं बुद्धिमनसी कर्मेन्द्रियपञ्चकं वायुपञ्चकंचेति। ज्ञानेन्द्रियाणि श्रोत्रत्वक्चक्षुर्जिह्वाघ्राणाख्यानि। एतान्याकाशादीनां सात्विकांशेभ्यः पृथक पृथक क्रमेणोत्पद्यन्ते। बुद्धिर्नामनिश्चयात्मिकान्तः करणवृत्तिः । मनो नाम संकल्पविकल्पात्मिकानतःकरणवृत्तिः। अनयोरेव चित्ताहंकारयोरभवः। एते पुनराकाशादिगतसात्विकांशेभ्यो मिलितेभ्य उत्पद्यन्ते। एतेषां प्रकाशात्मकत्वात्सात्विकांशकार्यात्वम्। इयं बुद्धिर्ज्ञानेन्द्रियैः सहिता विज्ञानमयकोशो भवति। अयं कर्तृत्वभोक्तृत्वसुखित्वदुःखित्वदुःखित्वाद्याभिमानत्वेनेहलोकपरलोकगामी व्यावहारिको जीव इत्युच्यते । मनस्तु ज्ञनेन्द्रियै सहितंसन्मनोमयकोशो भवति। कर्मेन्द्रियणि वाक्पाणिपादपायूपस्थाख्यानि। एतानिपुनराकाशादीनां रजोंऽसेभ्यो व्यस्तेभ्यः पृथक् पृथक् क्रमेणोत्पद्यन्ते। वायवः प्राणापानव्यानोदानसमानाः। प्राणो नाम प्राग्गमनवान्नासासाग्रस्थानावर्ती। अपानो नामावाग्गमनवान्पाय्वादिस्थानस्थनवर्ती। व्यानो नाम विष्वग्नमनवानखिलशरीरवर्ती। उदानो नाम कण्ठस्थानीय ऊर्ध्वगमननवानुत्क्रमणवायुः। समानो नाम शरीरमध्यगताशितपीतान्नादिसमीकरणकरः। केचित्तु नागकुर्मकृकलदेवदत्तधनञ्जयाख्या पञ्चान्ये वायवः सन्तीति बदन्ति।तत्र नाग उद्गिरणकरः। कुर्म उन्मीलनकरः। कृकलः क्षुत्करः ।देवदत्तो जृम्भणकरः। धनञ्जयः पोषणकरः। एतेषां प्राणोदिष्वन्तर्भावात्प्राणादयः पञ्चैवेति केचित् । एतेषां प्राणादिपञ्चकमाकाशादिगतरजोंऽशेभ्यो मिलितेभ्य उत्पद्यते। इदं प्राणादिपञ्चकं कर्मेन्द्रियैः सहित सत्प्राणमयकोषो भवति। अस्य क्रयात्मकत्वेन रजोंऽशकार्यकत्वम्। एतेषु कोशेषु मध्ये विज्ञानमयो ज्ञानशक्तिमान् कर्तृरूपः। मनोमय इच्छाशक्तिमान् करणरूपः। प्राणमयः। क्रियाशक्तिमान् कार्यरूपः। योग्यत्वादेवमेतेषां विभग इति वर्णयन्ति। एतत्कोशत्रयं मिलितं सूक्ष्मशरीरमित्युच्यते॥१७॥

सूक्ष्मप्रपञ्च निरुपणम्।
अत्राप्यखइलसूक्ष्मशरीरमेकबुद्धिविषयतया वनवजलाशयवद्वा समष्टिरनेकबुद्धिविषयतया वृक्षवज्जलवद्वा व्यष्टिरपि भवति। एतत्स्ष्ट्युपहितं चैतन्यं सूत्रात्मा हिरण्यगर्भः प्राणश्चेत्युच्यते सर्वत्रानुस्यूतत्वाज्ज्ञानेच्छाक्रियाशक्तिमदुपहितत्वाच्च। अस्यैषा समष्टिः स्थुलप्रपञ्चापेक्षया सूक्ष्मत्वात्सूक्ष्मशरीरं विज्ञानमयादिकोशत्रयं जाग्रदद्वासनामयत्वात्स्वप्नोऽतएव स्थूलप्रपञ्चलयस्थानमिति चोच्यते। एद्व्यष्ट्युपहित चैतन्यं तैजसो भवति तेजोमयान्तःकरणोपहितत्।  अस्यापीयं व्यष्टिः स्थूलशरीरापेक्षया सूक्ष्मत्वादिति हेतोरेव सूक्ष्मशरीरं विज्ञानमयादिकोशत्रयं जाग्रद्वासनामयत्वात्स्वप्नोऽत एव स्थूलशरीरलयस्यानमिति चोच्यते। एतौ सूत्रत्रत्मतैजसौ तदानीं मनोवृत्तिभिः सूक्ष्मविषयानुभवतः 'प्रविविक्तभुक्तैजस' इत्यादिश्रुतेः। अत्रापि समष्टिव्यष्ट्योस्तदुपहितसूत्रात्मतैजसवयोर्वनवृक्षवत्तदवच्छिन्नाकाशवच्च जलाशयवत्तद्गतप्रतिबिम्बाकाशबच्चाभेदः। एवं सूक्ष्मशरीरोत्पत्तिः॥१८॥

Comments

Popular posts from this blog

सूर्य नमस्कार

हरिहर स्तोत्रम्

।।आपदुद्धारक बटुक भैरवस्तोत्रम्।।