Posts

Showing posts from May, 2019

।।आपदुद्धारक बटुक भैरवस्तोत्रम्।।

।।आपदुद्धारक बटुक भैरवस्तोत्रम्। । ॥श्रीगणेशाय नमः। श्री सरस्वत्यै नमः।श्री बटुकाभैरवाय नमः॥ मेरुपरष्ठेसुखासीनं देवदेवं जगदंगुरुम्। शङ्करं परिपप्रच्छ पार्वती परमेश्वरम्॥१ श्रीपार्वत्युवाच॥ भगवन्सर्वधर्मज्ञ सर्व शास्त्रागमादिषु। आपदुद्धरणं मन्त्रं सर्वसिद्धिकरं परम्॥२ सर्वेषां चैव भूतानां हितार्थं वाञ्छितम्मया। विषेषतस्तु राज्ञां वै शांतिपुष्टिप्रदायकम्॥३ अङ्गन्या करन्यास देहन्यास समन्वितम्। वक्तुमर्हसि देवेश मम हर्षविवर्धनम्॥४॥ शङ्कर उवाच॥ श्रृणु देवि महामन्त्रमापदुद्धरहेतुकम्। सर्वदुःखप्रशमनं सर्वशत्रुविनाशनम्॥५ आपस्मरादिरोगाणां ज्वरादीनां विषेशतः। नाशनं स्मृतिमात्रेण मंत्रराजमिमं प्रिये॥६ ग्रहारोगभयानां च नाशनं सुखवर्धनम्। सर्वकामार्थदं पुण्यं राज्यभोगप्रदं नृणाम्॥७ आपदुद्धारणमिति मन्त्रं वक्ष्याम्शेषतः। प्रणवं पूर्वमुद्धृत्य बीजप्रणवमुद्धरेत्॥८ बटुकायेति वै पश्चादापदुद्धारणाय च। कुरुद्वयं ततः पश्चाद् बटुकाय पुनः क्षिपेत्॥९ देवीप्रणवमुद्धृत्य मन्त्रोद्धारमिमं प्रिये। मन्त्रोद्धारमिदं देवी त्रैलोक्यस्यापि दुर्लभम्॥१० ॐ ह्रीं वं बट...