।।आपदुद्धारक बटुक भैरवस्तोत्रम्।।

।।आपदुद्धारक बटुक भैरवस्तोत्रम्।
॥श्रीगणेशाय नमः। श्री सरस्वत्यै नमः।श्री बटुकाभैरवाय नमः॥
मेरुपरष्ठेसुखासीनं देवदेवं जगदंगुरुम्।
शङ्करं परिपप्रच्छ पार्वती परमेश्वरम्॥१
श्रीपार्वत्युवाच॥
भगवन्सर्वधर्मज्ञ सर्व शास्त्रागमादिषु।
आपदुद्धरणं मन्त्रं सर्वसिद्धिकरं परम्॥२
सर्वेषां चैव भूतानां हितार्थं वाञ्छितम्मया।
विषेषतस्तु राज्ञां वै शांतिपुष्टिप्रदायकम्॥३
अङ्गन्या करन्यास देहन्यास समन्वितम्।
वक्तुमर्हसि देवेश मम हर्षविवर्धनम्॥४॥
शङ्कर उवाच॥
श्रृणु देवि महामन्त्रमापदुद्धरहेतुकम्।
सर्वदुःखप्रशमनं सर्वशत्रुविनाशनम्॥५
आपस्मरादिरोगाणां ज्वरादीनां विषेशतः।
नाशनं स्मृतिमात्रेण मंत्रराजमिमं प्रिये॥६
ग्रहारोगभयानां च नाशनं सुखवर्धनम्।
सर्वकामार्थदं पुण्यं राज्यभोगप्रदं नृणाम्॥७
आपदुद्धारणमिति मन्त्रं वक्ष्याम्शेषतः।
प्रणवं पूर्वमुद्धृत्य बीजप्रणवमुद्धरेत्॥८
बटुकायेति वै पश्चादापदुद्धारणाय च।
कुरुद्वयं ततः पश्चाद् बटुकाय पुनः क्षिपेत्॥९
देवीप्रणवमुद्धृत्य मन्त्रोद्धारमिमं प्रिये।
मन्त्रोद्धारमिदं देवी त्रैलोक्यस्यापि दुर्लभम्॥१०
ॐ ह्रीं वं बटुकाय आपदुद्धारणय कुरु कुरु बटुकाय ह्रीं।
अप्रकाश्यमिमम्मन्त्रं सर्वशक्तिसमन्वितम्॥११
स्मरणदेव मन्त्रस्य भूत प्रेत पिशचकाः।
विद्रवं त्वतिभीता वै कालरुद्रादिव प्रजा॥१२
पठेत्वा पाठयेद्वापि पूजयेत्वापि पुस्तकम्।
नाग्निचौरभयं तस्य ग्रहराजभयं तथा॥१३
न च मारीभयं किञ्चित् सर्वत्र सुखभाग्भवेत्।
आयुरारोग्यमैश्वर्यं पुत्रपौत्रादि संपदः॥१४
भवन्ति सततं तस्य पुस्तकस्यापि पुजानात्।
न दारिद्र्यं न दौर्भग्यं नापादां भयमेव च॥१५
श्री पार्वत्युवाच॥
 क एष भैरवो नाम आपदुद्धरणो मतः।
त्वया च कथितो देवो भैरवोः कल्पवित्तमः॥१६
तस्य नामसहस्साणि अयुतान्यर्बुदानि च।
सारमुद्धृत्य तेषां वै नामाष्टशातकं वद॥१७
यानि संकीत्यन्मत्यः सर्वदुःखविवर्जितः।
सर्वान्कामान्वाप्नोति साधकः सिद्धिमेव च॥१८
श्री ईश्वर उवाच॥
श्रृणु देवि प्रवक्ष्यामि भैरवस्य महात्मनः।
आपदुद्धरणस्येदं नामष्टशतमुत्तमम॥१९
सर्वपापहरं पुण्यं सर्वापत्तिविनाशनम् ।
सर्वकामर्थदं देवि साधकानां सुखावहं॥२०
सर्वमङ्गलमाङंगल्यं सर्वोपद्रवनाशनम्।
आयुष्करं पुष्टिकरं श्रीकरं च यशस्करम्॥२१
नामाष्टशतकस्यास्य छन्दोऽनुष्टुप्प्रकीर्तितः।
बृहदारण्यको नाम ऋषिर्देवोऽथ भैरवः॥२२
लज्जाबीजं बीजमिति बटुकायेति शक्तिकम्।
प्रणवः कीलकं प्रोक्तमिष्टसिद्धौ नियोजयेत्॥२३
अष्टबाहुं त्रिनयनमिति बीजं समाहितम्।
शक्तिः कं कीलकं शेषमिष्टसिद्धौ नियोजयेत्॥२४
अथ न्यासः ॥ ॐ ह्रां वूं हृदयाय नमः। ॐ ह्रीं वीं शिरसे स्वाहा । ॐ ह्रूं वूं शिखायै वषट्। ॐह्रैं वैं कवचाय हुम् । ॐ ह्रौं वौं नेत्रत्रयाय वौषट् । ॐ ह्रः वः अस्त्राय फट्॥ इत्यङ्ग न्यासः।
अथ करन्यासः।  ॐ ह्रां वां अङ्गुष्ठाभ्यां नमः । ॐ ह्रीं वीं तर्जनीभ्याम्यां नमः। ॐ ह्रूं वूं मध्यमाभ्यां नमः । ॐ ह्रैः वैःअनामिकाभ्यां नमः। ॐ ह्रौं वौं कनिष्ठिकाभ्यां नमः। ॐ ह्रः वः करतलकरपृष्ठाभ्यां नमः॥ इति करन्यासः।
अथ देहन्यासः। भैरवं मूर्ध्नि विन्यस्य ललाटे भीमदर्शनम् ।
नेत्रयोः भूतहननं सामेयानुगं भ्रुवोः॥२५
कर्णयोर्भूतनाथं च प्रेतबाहुं कपोलयोः।
नासापुटौष्ठयोश्चैव भस्माङ्गं सर्वभूषणम्॥२६
अनादिनाथमास्ये च शक्तिहस्तं गले न्यसेत्।
स्कन्धयोर्दैत्यशमनं बाह्वोरतुलतेजसम्॥२७
पाण्योः कपालिनं न्यस्य हृदये मुण्डमालिनम्।
शान्तं वक्षस्थले न्यस्य  स्तनयोः कामचारिणम्॥२८
उदरे च सदा तुष्टं क्षेत्रेशं पाश्वयोस्तथा।
क्षेत्रपालं पृष्ठेशे क्षेत्रज्ञं नाभिदेशके॥२९
पापौघनाशनं कट्यां बटुकं लिङ्गदेशके।
गुदे रक्षाकरं न्यस्य तथोर्वो रक्तलोचनम्॥३०
जानुनोघुर्घुरारावं जङ्घयोरक्तपायिनाम्।
गुल्फयोः पादुकासिद्धं पादपृष्ठे सुरेश्वरम्॥३१
आपादमस्तके चैव आपदुद्धारिणम् तथा।
पूर्वे डमरुहस्तं च दक्षिणे दण्डधारिणम्॥३२
खड्गहस्तं पश्चिमे च घण्टावादनमुत्तरे।
आग्नेय्यामग्निवर्णं च नैऋत्ये च दिगम्बरम्॥३३
वायव्यां सर्वभूतस्थमथसान्ये चाष्टसिद्धम्।
ऊर्ध्वं खेचरिणं न्यस्य पाताले रौद्ररूपिण्॥३४
एवं विन्यस्य देहेषु षडङ्गेषु ततो न्यसेत्।
रुद्रमङ्गुष्ठयोन्यस्य तर्जन्योश्च दिवाकरम्॥३५
शिवं मध्ययोर्न्यस्य नासिकायां त्रिशूलिनम्।
ब्रह्मणं तु कनिष्ठिक्यां करतलयोस्त्रिपुरान्तकम्॥३६
मांसाशिनं कराग्रे तु करपृष्ठे दिगम्बरम्।
अथनामाङ्गन्यासःहृदये भूतनाथाय आदिनाथया मूर्द्धनि॥३७
आननंदपादपूर्वाय नाथाय च शिखासु च।
सिद्ध सावरनाथय कवचे विन्यसेत्तथा॥३८
सहजानन्दनाथाय न्यसेन्नेत्रत्रयेज्ञु च।
परमानन्दनाथय अस्त्रं चैव प्रयोजयेत्।३९
एवं विन्यस्य देहेषु षडङ्गेषु ततो न्यसेत्।

ध्यानं तस्य प्रवक्ष्यामि यथा ध्यात्वा पठेन्नरः॥४०
शुद्धस्फटिकसंकाशं सहस्रादित्यवर्चसम्।
नीलजीमूत संकाशं नीलांजनसमप्रभ्॥४१
अष्टबाहुं त्रिनयनं चतुर्बाहुं द्विवाहुकम्।
दंष्ट्राकरालवदनं नूपुरारावसंकुलम्॥४२
भूजंगमेखलं देवमग्निवर्णशिरोरुहम् ।
दिगम्बरं कुमारीशं च शूलदक्षिणभगतः॥४३
डमरुञ्च कपालं च वरदं भूजगं तथा ।
अग्निवर्णसमोपेतं सारमेयसमन्वितम् ॥
ध्यात्वा जपेत्तु संतुष्टः सर्वान्कानवाप्नुयात्॥४४
तन्त्रन्तरे अथ सात्विक ध्यानम्।
वन्दे बालस्फटिकसदृशं कुण्द्भसिवक्त्रम्
दिव्यकल्पैर्वमणिमयैः किंकिणीनूपुराढ्यैः।।
दीप्ताकारं विशदवदनं सुप्रसन्नं महेशम्
हस्ताब्जाभ्यां बटुकमनिशं शूलखड्गौदधानम्॥
राजसध्यानम्।  उद्भास्करसन्निभं त्रिनयनं रक्ताङ्गरागस्रजम्
स्मेरास्यं वरदङकपालमभयं शूलं दधानं करैः ।
नीलग्रीवमुदारभूषणंयुतं शीतांशुखण्डोज्वलं
बन्धूकारूणवाससं भयहरं देवं सदा भवयेत्॥
तामस ध्यानम्। ध्यायेत्त्रैलोक्यकान्तं शशिशकलधरं मुण्डमालं महेशम्
दिक्वस्त्रं पिङ्गकेशं डमरुमथ सृणिं खड्गशूलं दधानम्।
नागं घण्टाकपालं करसरसिरुहैर्बिभ्रतं भीमदंष्टं
सर्पाकल्पं त्रिनेत्रं मणिमयविलसत् किङ्किणीनूपुराढ्यम्॥
इतिध्यान त्रयम्।
सात्विकं ध्यानमाख्यातञ्चतुर्वर्गफलप्रदम् ।
राजसं कार्यशुभदं तामसं शत्रुनाशनम् ॥
ध्यात्वा जपेत्सुसंहृष्टः सर्वान्कामनवान्युयात् ।
आयुरारोग्यमैश्वयं सिद्ध्यर्थं विनियोजयेत्॥
अस्य श्रीवटूकभैरव नामाष्टशतकस्य आपदिद्धारणस्तोत्रमन्त्रस्य बृहदारण्यको नाम ऋषिः श्रीबटुकभैरवो देवता अनुष्टुपछन्दः ह्रीं बीजं बतुकायेति शक्तिः प्रणवः कीलकम् अभीष्टसुद्यर्थे जपे विनियोगः।
ॐ ह्रीं ह्रौं नमः शिवाय। इति ध्यान मन्त्र।
ॐ करकलितकपालः कुण्डली दण्डपाणि
स्तरुणतिमिर नीलव्यालयज्ञोपवीती।
क्रतुसमयसपर्य्या विघ्विच्छेद हेतुः
र्जयतिबटुकनाथः सिद्धदः साधकानाम्॥
ॐ भैरवो भूतनाथश्च भूतात्माभूतभवनः।
क्षेत्रज्ञः क्षेत्रपलश्च क्षेत्रदः क्षत्रियो विराट॥१
श्मशानवासी मांसाशी खर्पराशी स्मरान्तकः।
रक्तपः पानपः सिद्धः सिद्धिदः सिद्धिसेववितः॥२
कङ्कालः कामशमनः कालकष्ठातनुः कविः।
त्रिनेत्रो बहुनेत्रश्च तथा पिंगललोचनः॥३
शुलपाणिः खड्गपाणिः कंकाली धूम्रलोचनः।
अभीरुर्भैरवीनाथो भूतपो योगिनीपति॥४
धनदो धनहारी च धनवान प्रतिभावान्।(प्रतिभाववान्)
नागहारो नागपाशो व्योमकेशः कपालभृत्॥५
कालः कपालमाली च कमनीयः कलानिधिः।
त्रिलोचनोज्ज्वलन् नेत्रस्त्रिशइखी च त्रिलोकपः॥६
त्रिनेत्रतनयो डिम्भः शान्त शान्तजननप्रियः।
बटुको बहुवेषश्च खट्वाङ्गवरधरकः॥७
भूताध्यक्षः पशुपतिर्भिक्षुकः परिचारकः।
धूर्तो दिगम्बरः शौरिर्हरिणः पाण्डुलोचनः॥८
प्रशान्तः शन्तिदः शुद्धः शङ्करप्रियबान्धवः।
अष्टमूर्तिनिधीशश्च ज्ञानचक्षुतपोमयः॥९
अष्टाधरः षडाधारः सर्पयुक्तः शिखीसखा।
भूधरो भूधराधीशो भूपतिर्भूधरात्मजः॥१०
कंकालधारी मुण्डी च नागयज्ञोपवीतकः।
जृम्भणो मोहनस्तम्भी मारणः क्षोभणस्तथा॥११
शुद्धो नीलाञ्जनप्रख्यो प्रत्याहा मुण्डभूषितः।
बलिभुग्भलिभुङ्नाथो बालो बाल पराक्रमः॥१२
सर्वापत्तारणो दुर्गो दुष्टभूतनिसेवितः।
कामी कलानिधिः कान्त कामिनीवशकृद्वशी॥१३
सर्वसिद्धिप्रदो वैद्यः प्रभुविष्णु रतीव हि।
अष्टोत्तरशतं नाम्नां भैरवस्यमहात्मनः॥१४
मया ते कथितं देवी रहस्यं सर्वकामदम्।
य इदं पठते स्तोत्रं नामाष्टशतमुत्तमम्॥१५
न तस्य दुरितं किञ्चिन्नैव भूतभयं तथा।
न च मारीभयं तस्य ग्रहराजभयं तथा॥१६
न शत्रुभ्यो भयं किञ्चित्प्राप्नुपान्मानवः क्वचित्।
पातकानं भयं नैव पठेत्तोत्रमनुत्तमम्॥१७
मारीभये राजभये तथा चौराग्निजे भये।
औत्पत्तिकभये चैव तथा दुःस्प्नजे भये॥१८
बन्धने च तथा घोरे पथेत्स्तोत्रमनुत्तमम्।
सर्व् प्रशमनं याति भयं भैरवकीर्तनात्॥१९
 एकादशसहस्रं तु पुरश्चरणमुच्यते।
यस्त्रिसन्ध्यं पठेद् देवि सम्वतमतन्द्रितः॥२०
स सिद्धिमाप्नुयादिष्टां दुर्लभोऽपि च मानवः।
षड्मासान्भूमिकामस्तु जपित्वा प्राप्नुयान्महीम्॥२१
राजशत्रुविनाशार्थं पठेन्मासाष्टकं यदि।
रात्रौ वा जपते देवि नाशयेत् सर्वशत्रुकान्॥२२
जपेन्मासत्रयम्मर्त्यो राजानं वशमानयेत्।
धनार्थी च सुतार्थी च दारार्थी चापि मानवः॥२३
पठेन्मासत्रयं देवि वारमेकं तथ निशि ।
धनं पुत्रं तथा दारान् प्राप्नुयान्नात्रसंशयः॥२४
रोगी रोगात्प्रमुच्येत बद्धो मुच्येत बन्धनात्।
भीतो भयात्प्रमुच्येत देवि सत्यं न संशयः॥२५
निगडैश्चापि यो बद्धः कारागृहनिपातितः।
शृङ्खलाबन्धनप्राप्तः पठेच्चेद्यदि वा निशाम्॥२६
यान्यासमीहते कामांस्तांस्तां प्राप्नोति निश्चितम्।
अप्रकाश्यमिदं गुह्यं न देयं यस्य कस्यचित्॥२७
सकुलीनाय शान्ताय ऋजवे दम्भवर्जिते।
दद्यात्स्तोत्रमिदं पुण्यं सर्वकामफलप्रदम्॥२८
सन्तोषं परमं प्राप्य भैरवस्य महातममनः।
भैरवस्य प्रसन्नोऽभूत्सर्वलोकमहेश्वरी॥२९
भैरवस्तु प्रहृष्टोऽभूत सर्वगः परमेश्वरः।
जजाप परया भक्त्या सदा सर्वेश्वरेश्वरीम्॥३०
                                                                                     इति श्रीरुद्रयामले ईश्वरपार्वतीसम्वादे बटूकभैरवस्तोत्रम्  सम्पुर्णम्॥

Comments

Popular posts from this blog

सूर्य नमस्कार

हरिहर स्तोत्रम्