रति मञ्जरी
।रति मञ्जरी।
छोटा सा परिचय रति के बारे में:- कहें तो यह मुख्यतः काम शास्त्र का ग्रन्थ है।ग्रन्थकार हैं जयदेव।
रति कें ब्यावाहारिक पक्ष भी देखें काम मानव जीवन का अति ही आवश्यक पक्ष है, गृहस्त जीवन का तो अभिन्नतम व्यवाहार है। काम की सुन्दरता यह है की भोगों से विमुक्ती भी यही दिला सकता हैं, यदी आप योग दर्शन में निर्दिष्ट शौच का कर्मठता से पालन करें तो।
यहाँ अतीशय रुप से भोग के पक्ष में मै नही हूँ, इस की सुन्दरता को नकार भी नही सकतें हैं, शरीर अशक्त होने पर चक्षु से रुप लावण्य का पान करने वाले बहुधा सुन्दरता प्रेमी जन भी हैं ही।
अलं याहाँ कतीपय श्लोक जिन में स्त्रिपुरुष कि जातीयों का बर्णन तथा परिचयात्मक हैं वह तो सामुद्रिक शास्त्र के अध्येताओं के लिए भी उपयोगी होंगे।
॥ग्रन्थकृन्मङ्गलम्॥
नत्वा सदाशिवं देवं नागराणां मनोहरम्।
रच्यते जयदेवेन सुबोधा रतिमञ्जरी॥१
रतिशास्त्रं कामशास्त्र तस्य सारं समाहृतम्।
सुप्रबन्धं सुसंक्षिप्तं जयदेवेन भाष्यते॥२
॥स्त्रीपुंसोर्जातिलक्षणम्॥
पद्मिनी चित्रिणी चैव शङ्खिनी हस्तिनी तथा।
शशो मृगो वृषsश्वाश्च स्त्रीपुंसोर्जातिलक्षणणलम्॥३
॥पद्मिनी लक्षणम्।
भवती कमलनेत्रा नासीकाक्षुद्ररन्ध्रा
अविरलकुचयुग्मा चारुकेशी कृशाङ्गी।
मृदुवचनसुशीला गीतवाद्यानुरक्ता
सकलतनुसुवेशा पद्मिनी पद्मगन्धा॥४
॥चित्रिणीलक्षण॥
भवती रतिराज्ञा नातिखर्वा न दीर्घा
तिलककुशुमसुनासा स्निग्धनीलोत्पलाक्षी।
घनकठिनकुचाढ्या सुन्दरी बद्धशीला
सकलगुणयुता सा चित्रिणी चित्रवक्त्रा॥५
॥शङ्खिनी लक्षण॥
दीर्घातिदीर्घनयना वरसुन्दरी या
कामोपभोगगरसिका गुणशीलयुक्ता।
रेखात्रयेण च विभूषितकण्ठदेशा
सम्भोगकेलिरसिका(निरता)किल शङ्खिनी सा॥६
॥हस्तिनी लक्षणम्॥
स्थूलाधरा स्थूलानितम्बभागा
स्थूलाङ्गुली स्थूलकुचा सुशीला।
कामोत्सुका गाढरतिप्रिया या
नितान्तभोक्त्री करिणी मता सा॥७
तासां सन्तोषकरान् पुरुषानाह।
शशके पद्मिनी तुष्टा चित्रिणी रमते मृगे।
वृषभे शङ्खिनी तुष्टा हस्तिनी रमते हये॥८
॥स्त्रीजातिचतुष्टयलक्षणम्॥
पद्मिनी पद्मगन्धा च मीनगन्धा च चित्रिणी।
शङ्खिनी क्षारगन्धा च मदगन्धा च हस्तिनी॥९
नायिका भेदाः।
बाला च तरुणी प्रौढा वृद्धा भवती नायिका।
गुणयोगेन रन्तव्या नारी वश्या भवेत्तदा॥१०
नायिका लक्षणम्।
आषोडशाद्भवेद्बाला तरुणी त्रिंशता मता।
पञ्चपञ्चशता प्रौढ़ा भवेद्वृद्धा ततः परम्॥११
नायिकावशीकरणविधी।
फलमूलादिभिर्बाला तरुणी रतियोगतः।
प्रेमदानादिभिः प्रौढा वृद्धा च दृढताडनात्॥१२
नायिकागुणाः॥
बाला तु प्राणदा प्रोक्ता तरुणी प्राणहारिणी।
प्रौढ़ा करोती वृद्धत्वं वृद्धा तु मरणं दिशेत्॥१३
कामस्थानानी।
अङ्गुष्ठे चरणे च गुल्फनिलये जानुद्वये वस्तिके
नाभौ वक्षसि कक्षयोर्निगदिता कण्ठे कपोलेऽधरे।
नेत्रे कर्णयुगे ललाटफलके मौलौ च वामभ्रुवा-
मूर्ध्वाधश्चलनक्रमेण कथिता चान्द्रीकला पक्षयोः॥१४
सीमान्तेनयनेऽधरे चगलके वक्षःस्थले चूचुके
नाभौ श्रोणितटे मनोभव गृहे जानौ च जङ्घा तटे।
गुल्फे पादतले तद्गुलितटेऽङ्गुष्ठे च तिष्ठत्यसौ
वृद्धिक्षीणतया समं शशिकला पक्षद्वये योषिताम्॥१५॥
शुक्लपक्षे वसेद्वामे पादाङ्गुलीकनिष्ठके।
शुक्लेप्रतिपदादौ च कृष्णे चाधः प्रलम्बते॥१६
पुंसः सव्ये स्त्रिया वामे शुक्ले कृष्णे विपर्ययः।
एतानि कामस्थानानि ज्ञेयानि नागरैः सदा॥१७॥
अथप्रबलवनितानिधुवनविधीः।
बलयुक्ता यदा नारी विपरीतरतिर्भवेत्।
सञ्चाल्य तु कलास्थानं रन्तब्या कामिनी तदा॥१८॥
चुम्बनस्थानानी।
नेत्रे कण्ठे कपोले च हृदि पार्श्वद्वयेऽपि च।
ग्रीवायां नाभिदेशे च कामी चुम्बति कामिनीम्॥१९
मुखे जंघे कपोले च जघने मदनालये।
स्तनयुग्मे सदा प्रीतिः कामी चुम्बती कामिनीम्॥२०
प्रेम्णा स्त्रियं समालिङ्ग्य शीत्कारं मुखचुम्बनम्।
कण्ठासक्तं पुनः कृत्वा गाढालिङ्गनमाचरेत्॥२१
विधृत्य हस्तौ जघनोपविष्टः
शीत्कृत्य वक्त्रं च मुदाप्रचुम्ब्य।
भगे च लिङ्गं स्तनमर्दञ्च
दत्वा च प्रेम्णा प्ररमेच्च कामी॥२२
केतक्याग्रनखं कृत्वा नखाँत्रीन् पञ्च चैव वा।
पृष्ठे च जघने योनौ दत्वा कामी रमेत् स्त्रियम्॥२३
नखरोमाञ्चितं कृत्वा दन्तेनाऽधरपीडनम्।
ग्रीवामाकृष्य भगेन योनौ लिंगेन ताडनम्॥२४
लिङ्गप्रवेशनं कृत्वा धृत्वा गाढप्रयोगतः।
पार्श्वद्वयञ्च सम्पीड्य सस्पृहं तडयेत्भगम्॥२५
समालिङ्ग्य स्त्रियं गाढं स्तनयुग्मे च मर्दनम्।
योनिं नाभौ च सम्मार्द्य निष्ठुरं लिङ्गताडनम्॥२६
केशं करेण संसंगृह्य दृढं सन्ताडयेद्भगम्।
वदने चुम्बनं कृत्वा भगं हस्तेन मर्दयेत्॥२७॥
पद्मिनीरमणविधिः।
कुचं करेण सम्मर्द्य पीडयेदधरं दृढम्।
रमणः पद्मबन्धेन पद्मिनीरतिमादिशेत्॥२८॥
चित्रिणीरमणविधीः।
शीत्कारं चुम्बनं कृत्वा गले हस्ते च चुम्बनम्।
कुचं हस्तेन सम्मर्द्य चित्रिणीरतिमादिशेत्॥२९॥
खङ्खिनीरमणविधीः
स्त्रीपुंसोस्तथान्याऽन्यं भगे लिंगे च चुम्बमनम्।
रमणं तु तथा गाढं शङ्खिनीरतिमादिशेत्॥३०
हस्तिनीरमणविधीः
केशं करेण संगृह्य सुदृढं जालबन्धनम्।
भगं करेण सन्ताड्य हस्तिनीरतिमादिशेत्॥३१
भगलक्षणम्
कूर्मपृष्ठं गजस्कन्धं पद्मगन्धि सुगन्धि यत्।
अलोमकं सुविस्तीर्णं भगं पञ्चविधं वरम्॥३२
भगदोषः
शीतलं निम्नमत्युच्चं गोजिह्वासदृशं खरम्।
ईत्युक्तं कामशास्त्रज्ञैर्भगदोषचतुष्टयम्॥३३॥
लिङ्गगलक्षणम्
मुसलं वंशकवीरं द्विविधं लिङ्गलक्षणम्।
स्थूलं मुसलमित्युक्तं दीर्घं वंशकवीरकम्॥३४
पुरुषाणां जातिभेदे शशपुरुषलक्षणम्
स्त्रीजितो गायकश्चैव नारीसत्यपरः सुखी।
षडगुलशरीरश्च स श्रीमान् शशको मतः॥३५
मृगपुरुषलक्षणम्
श्रेष्ठस्तु धर्मिकः श्रीमान् सत्यवादी प्रियम्वदः।
अष्टांगुलशरीरश्च रूपयुक्तो मृगो मतः॥३६
बृषभपुरुषलक्षणम्
उपकारपरो नित्यं स्त्रीजितः श्लेष्मलः सुखी।
दशाङ्गुलशरीरश्च मनस्वी वृषभो मतः॥३७
हयपुरुषक्षणम्
काष्ठतुल्यवपुधृष्टो मित्थ्यावाक्यश्च निर्भयः।
द्वादशाङ्गुललिङ्गश्च दरिद्रश्च हयो मतः॥३८
अथाऽऽसनानी
अतृप्ता रमणे नार्यो रमन्ते न यदा तदा।
नाना बन्धैर्वक्ष्यमाणै रन्तब्याः कामिभिःस्त्रीयः॥३९
षोडशासननामानी
पद्मासनो नागपदो लताववेष्टोऽर्ध्दसम्पुटः।
कुलिशः सुन्दरश्चैव तथा केशरसंज्ञकः॥४०
हिल्लोलो नरसिंहो$पि विपरीतस्तथा परः।
क्षुद्गारो धेनुकश्चैव उत्कण्ठश्च ततः परः॥४१
सिंहसनो रतिनागो विद्याधरस्तु षोडष॥४२
पद्मसनलक्षणम्
हस्तभ्यां च समालिङ्ग्य नारी पद्मासनोपरि।
रमेद्गाढं समाकृष्य बन्धोऽयं पद्मसंज्ञकः॥४३
नागपादासनलक्षणम्
स्कन्धे पादौ समाधाय योनौ लिङ्गं प्रवेश्य च।
कामी रमेद्दृढं नारी नागपादासनं स्मृतम्॥४४
लतावेष्टटनासनलक्षणम्॥
बाहुभ्यां पादयुग्माभ्यां वेष्टयित्वा रमेत् स्त्रियम्।
लिंगेन ताडयेद्योनिं लतावेष्टोऽयमुच्यते॥४५
अर्धसम्पुटासनलक्षम्
अन्तरिक्षे स्त्रियः पादौ कृत्वा स्वस्य च भूतले।
हस्ताभ्यां मर्दनं कृत्वा स्नयोश्च निरन्तरम्।
कामी रमेत्स्त्रियं तूर्णं बन्धोऽयमर्द्धसम्पुटः॥४६
कुलिशासनलक्षणम्
स्त्रीपादद्वयमास्फाल्य हठाल्लिंगेन ताडनम्।
योनौ कुर्यात्सदा कामी बन्धः कुलिनसंज्ञकः॥४७
रतिसुन्दरासनलक्षणम्
नारी पादद्वयं स्वामी धारयेदूर्ध्वदेशतः।
कुचौ धृत्वा पिबेद्वक्त्रं बन्धोऽयं रतिसुन्दरः॥४८
केशरासनलक्षणम्
स्त्रिया जङ्घे समापीड्य दोर्भ्यां गात्रस्य मार्दनम्।
पुनः प्रपीडयेद्योनिं बन्धः केशरसंज्ञकः॥४९
नृसिंहासनलक्षणम्
पादौ सम्पिड्य योनौ च हठाल्लिङ्गप्रवेशनम्।
हस्ताभ्यां वेष्टनं गाढं बन्धो नृसिंहसंज्ञकः॥५०
विपरीतासन
अरावेकं पदंकृत्वा द्वितीयं कटिसंस्थितम्।
नारीं चसुरमेकामीविपरीतासनं स्मृतम्॥५१
क्षुद्गारासनम्
पार्श्वोपरि पदौ कृत्वा योनिं लिंगेन ताडयेत्।
बाहुभ्यां ताडयेद्गाढं क्षुद्गारो बन्धसज्ञकः॥५२
धेनुकासनम्
सुप्तां स्त्रीयं समालिङ्ग्य स्वयं सुप्तो रमेत्पुनः।
यल्लिङ्गं चालयेद्योनौ बन्धोऽयं धेनुकः स्मृतः॥५३
उत्ककण्ठासनम्
नारीपादौ च हस्तेनधारयेत्गलके पुनः।
स्तनार्पितकरः कामीबन्धश्चोत्कण्ठसंज्ञकः॥५४
सिंहासनबन्धलक्षणम्
स्वीये जङ्घाद्वये कामी कृत्वा योषित्पदद्वयम्।
स्तनौ धृत्वा रमेन्नारीबन्धः सिंहासनो मतः॥५५॥
रतिनागबन्धलक्षणम्
पीडयेदुरुयुग्मेन कामुकः कामिनीं यदि।
रतीनागः समाख्यातः कामिनीनां मनोहरः॥५६
विद्याधरासनम्
नार्याश्चोरुयुगं धृत्वा कराभ्यां ताडयेत्पुनः।
रमयेन्निर्भरं कामी बन्धो विद्याधरो मतः॥५७
कामिजनप्ररशंसा
स्त्रीयमानीय यत्नेन विधृत्य चरणद्वयम्।
वशं नयति यः कामी रतिशास्त्रविचक्षणः॥५८
रतिशास्त्रं समाकण्य बन्धान् पद्मादिषोडश।
नानाविधरतिं कुर्यात्कामिन्या कामुको जनः॥५९
सर्वशास्त्रार्थवक्त्रेण जयदेवेन धीमता।
मञ्जरी रतिशास्त्रस्य कृत्वा नीता समाप्तताम्॥६०॥
इतिरतिमञ्जरी

Comments
Post a Comment